Sukta 3.1
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः । वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥
पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः । वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥
pitúś ca gárbhaṃ janitúś ca babhre pūrvī́r éko adhayat pī́pyānāḥ | vṛ́ṣṇe sapatnī́ śúcaye sábandhū ubhé asmai manuṣyé ní pāhi ||
He bore the embryo of the Father and of the Begetter; alone he has made the many powers drink, growing full. Two sisters, rivals yet akin, for the Bull, for the pure—both, guard for this human the right placing.
पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः । वृष्णे॑ । स॒पत्नी॒ इति॑ स॒पत्नी॑ । शुच॑ये । सब॑न्धू इति॑ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒ इति॑ । नि । पा॒हि॒ ॥पितुः । च । गर्भम् । जनितुः । च । बभ्रे । पूर्वीः । एकः । अधयत् । पीप्यानाः । वृष्णे । सपत्नी इति सपत्नी । शुचये । सबन्धू इति सबन्धू । उभे इति । अस्मै । मनुष्ये इति । नि । पाहि ॥pituḥ | ca | garbham | janituḥ | ca | babhre | pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ | vṛṣṇe | sapatnī itisapatnī | śucaye | sabandhū itisa-bandhū | ubhe iti | asmai | manuṣye iti | ni | pāhi