Sukta 3.1
स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् । अस्थु॒रत्र॑ धे॒नव॒: पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥
stīrṇā́ asya saṃható viśvarū́pā ghṛtásya yónau sraváthe mádhūnām | ásthur átra dhenávaḥ pínvamānā mahī́ dasmásya mā́tarā samīcī́ ||
Spread out for him are the many-formed powers gathered together; in the womb of the clarified light the sweetnesses flow. Here stand the nourishing streams, swelling with increase—two great Mothers of the Wonder-Worker, moving in one accord.
स्ती॒र्णाः । अ॒स्य॒ । स॒म्ऽहतः॑ । वि॒श्वऽरू॑पा । घृ॒तस्य॑ । योनौ॑ । स्र॒वथे॑ । मधू॑नाम् । अस्थुः॑ । अत्र॑ । धे॒नवः॑ । पिन्व॑मानाः । म॒ही इति॑ । द॒स्मस्य॑ । मा॒तरा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ॥स्तीर्णाः । अस्य । सम्हतः । विश्वरूपा । घृतस्य । योनौ । स्रवथे । मधूनाम् । अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा । समीची इति सम्ईची ॥stīrṇāḥ | asya | sam-hataḥ | viśva-rūpā | ghṛtasya | yonau | sravathe | madhūnām | asthuḥ | atra | dhenavaḥ | pinvamānāḥ | mahī iti | dasmasya | mātarā | samīcī itisam-īcī