Sukta 3.1
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः । सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः । सना॒ अत्र॑ युव॒तय॒: सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणी॑: ॥
vavrā́jā sīm ánadatīr ádabdhā divó yahvī́r ávasānā ánagnāḥ | sanā́ átra yuvatáyaḥ sáyonīr ékaṃ gárbhaṃ dadhire saptá vā́ṇīḥ ||
They moved radiant, sounding, inviolable—those mighty ones of Heaven, flowing, without fire. Here from of old the young ones, sharing one womb, held a single embryo: the seven voices bore one concealed birth—one flame-seed of the truth.
व॒व्राज॑ । सी॒म् । अन॑दतीः । अद॑ब्धाः । दि॒वः । य॒ह्वीः । अव॑सानाः । अन॑ग्नाः । सनाः॑ । अत्र॑ । यु॒व॒तयः॑ । सऽयो॑नीः । एक॑म् । गर्भ॑म् । द॒धि॒रे॒ । स॒प्त । वाणीः॑ ॥वव्राज । सीम् । अनदतीः । अदब्धाः । दिवः । यह्वीः । अवसानाः । अनग्नाः । सनाः । अत्र । युवतयः । सयोनीः । एकम् । गर्भम् । दधिरे । सप्त । वाणीः ॥vavrāja | sīm | anadatīḥ | adabdhāḥ | divaḥ | yahvīḥ | avasānāḥ | anagnāḥ | sanāḥ | atra | yuvatayaḥ | sa-yonīḥ | ekam | garbham | dadhire | sapta | vāṇīḥ