Sukta 3.1
शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः । शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥
शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभि॑: प॒वित्रै॑: । शो॒चिर्वसा॑न॒: पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥
śukrébhir áṅgair rája ātatanvā́n krátum punānáḥ kavíbhíḥ pavítraiḥ | śócír vasānáḥ páry ā́yur apā́ṃ śriyó mimīte bṛhatī́r anū́nāḥ ||
With bright limbs he stretches across the spaces; purifying the will, with the seers as his filters. Clothed in flame, he encompasses the life of the waters; he measures out their splendours—vast, undiminished plenitudes.
शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ । शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥शुक्रेभिः । अङ्गैः । रजः । आततन्वान् । क्रतुम् । पुनानः । कविभिः । पवित्रैः । शोचिः । वसानः । परि । आयुः । अपाम् । श्रियः । मिमीते । बृहतीः । अनूनाः ॥śukrebhiḥ | aṅgaiḥ | rajaḥ | ātatanvān | kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ | śociḥ | vasānaḥ | pari | āyuḥ | apām | śriyaḥ | mimīte | bṛhatīḥ | anūnāḥ