Sukta 3.1
अवर्धयन्त्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा । शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥
अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा । शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥
ávaṛdhayants subhágaṃ saptá yahvī́ḥ śvetáṃ jajñānám aruṣáṃ mahitvā́ | śíśuṃ na jātám abhy ā́rur aśvā́ devā́so agním jániman vapuṣyan ||
The seven mighty streams increased the fortunate one—white in his birth, ruddy in his greatness. Like horses running to a newborn child, the gods hastened to Agni; they fostered his becoming and made his form grow luminous.
अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा । शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥अवर्धयन् । सुभगम् । सप्त । यह्वीः । श्वेतम् । जज्ञानम् । अरुषम् । महित्वा । शिशुम् । न । जातम् । अभि । आरुः । अश्वाः । देवासः । अग्निम् । जनिमन् । वपुष्यन् ॥avardhayan | su-bhagam | sapta | yahvīḥ | śvetam | jajñānam | aruṣam | mahi-tvā | śiśum | na | jātam | abhi | āruḥ | aśvāḥ | devāsaḥ | agnim | janiman | vapuṣyan