Sukta 3.1
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः । अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥
मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः । अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥
máyo dadhé médhiraḥ pūtádakṣo diváḥ subándhur jánuṣā pṛthivyā́ḥ | avíndann u darśatám apsv àntar devā́so agním apási svasṝ́ṇām ||
He has set delight within us—wise, with purified discernment, a true kin of Heaven by birth from Earth. The gods found the visible Agni hidden within the waters, in the work of the Sisters: the secret flame revealed from the depths of the life-streams.
मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः । अवि॑न्दन् । ऊँ॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥मयः । दधे । मेधिरः । पूतदक्षः । दिवः । सुबन्धुः । जनुषा । पृथिव्याः । अविन्दन् । ऊँ इति । दर्शतम् । अप्सु । अन्तः । देवासः । अग्निम् । अपसि । स्वसॄणाम् ॥mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ | divaḥ | su-bandhuḥ | januṣā | pṛthivyāḥ | avindan | oṃ iti | darśatam | ap-su | antaḥ | devāsaḥ | agnim | apasi | svasṝṇām