Sukta 3.1
प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् । दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥
प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् । दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥
prā́ñcaṃ yajñáṃ cakṛma várdhatāṃ gī́ḥ samídbhīr agníṃ námasā duvasyán | diváḥ śaśāsur vidáthā kavīnā́ṃ gṛtsā́ya cit taváse gātúm ī́ṣuḥ ||
We have set the sacrifice moving forward; may the inspired speech increase. With kindlings we serve Agni by reverence and submission. The seers have established the sessions from the Heaven; even for the strong Gṛtsamada they sought a path of going—an opening for the force to advance.
प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् । दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृसा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥प्राञ्चम् । यज्ञम् । चकृम । वर्धताम् । गीः । समित्भिः । अग्निम् । नमसा । दुवस्यन् । दिवः । शशासुः । विदथा । कवीनाम् । गृसाय । चित् । तवसे । गातुम् । ईषुः ॥prāñcam | yajñam | cakṛma | vardhatām | gīḥ | samit-bhiḥ | agnim | namasā | duvasyan | divaḥ | śaśāsuḥ | vidathā | kavīnām | gṛsāya | cit | tavase | gātum | īṣuḥ