Sukta 3.1
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् । अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् । अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥
ā́ no gahi sakhyébhīḥ śivébhir mahā́n mahī́bhir ūtíbhiḥ saraṇyán | asmè rayíṁ bahuláṁ saṁtarútraṁ su-vā́caṁ bhāgáṁ yaśásaṁ kṛdhī naḥ ||
Come to us with friendships that are benign, O mighty one, with great and vast help that leads us safely. For us create a rich plenitude of being, victorious through all crossings, a share that is well-spoken and luminous with glory.
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् । अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिभिः । सरण्यन् । अस्मे इति । रयिम् । बहुलम् । सम्तरुत्रम् । सुवाचम् । भागम् । यशसम् । कृधि । नः ॥ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan | asme iti | rayim | bahulam | sam-tarutram | su-vācam | bhāgam | yaśasam | kṛdhi | naḥ