Sukta 3.1
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥
ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् । म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥
etā́ te agne jánimā sanā́ni prá pūrvyā́ya nū́tanāni vocam | mahā́nti vṛ́ṣṇe sávānā kṛtémā́ jánmañ janmanníhito jā́tavedāḥ ||
These are your births, O Agni, ancient ones; and I proclaim also the new ones for the primal One. Great are the pressings made for the Bull; in birth after birth Jātavedas is placed within, hidden to be kindled.
ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् । म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥एता । ते । अग्ने । जनिम । सनानि । प्र । पूर्व्याय । नूतनानि । वोचम् । महान्ति । वृष्णे । सवना । कृता । इमा । जन्मन्जन्मन् । निहितः । जातवेदाः ॥etā | te | agne | janima | sanāni | pra | pūrvyāya | nūtanāni | vocam | mahānti | vṛṣṇe | savanā | kṛtā | imā | janman-janman | ni-hitaḥ | jāta-vedāḥ