Sukta 3.1
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥
आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् । प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥
ā devānām abhavaḥ ketúr agne mandró viśvā́ni kā́vyāni vidvā́n | práti martā́m̐ avāsayo damūnā́ ánu devā́n rathiró yāsi sā́dhan ||
O Agni, you have become the signal-flame and luminous sign of the gods; blissful in your force, knowing all the inspired word and secret wisdom. You set mortals facing the divine habitation; and as a sure charioteer you go following the gods, accomplishing the work.
आ । दे॒वाना॑म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् । प्रति॑ । मर्ता॑न् । अ॒वा॒स॒यः॒ । दमू॑नाः । अनु॑ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध॑न् ॥आ । देवानाम् । अभवः । केतुः । अग्ने । मन्द्रः । विश्वानि । काव्यानि । विद्वान् । प्रति । मर्तान् । अवासयः । दमूनाः । अनु । देवान् । रथिरः । यासि । साधन् ॥ā | devānām | abhavaḥ | ketuḥ | agne | mandraḥ | viśvāni | kāvyāni | vidvān | prati | martān | avāsayaḥ | damūnāḥ | anu | devān | rathiraḥ | yāsi | sādhan