Sukta 3.1
उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः । सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः । सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥
upa-kṣetā́ras táva supranīté ’gne víśvāni dhányā dádhānāḥ | surétasā śrávasā túñjamānā abhí syāma pṛtanāyū́ṃr ádevān ||
May we be dwellers near you, O Agni, under your good leading, holding all the felicities. Pressing forward with noble seed of force and with fame, may we overcome the battle-seekers who are without the divine.
उ॒प॒ऽक्षे॒तारः॑ । तव॑ । सु॒ऽप्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा॑नि । धन्या॑ । दधा॑नाः । सु॒ऽरेत॑सा । श्रव॑सा । तुञ्ज॑मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒ऽयून् । अदे॑वान् ॥उपक्षेतारः । तव । सुप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः । सुरेतसा । श्रवसा । तुञ्जमानाः । अभि । स्याम । पृतनायून् । अदेवान् ॥upa-kṣetāraḥ | tava | su-pranīte | agne | viśvāni | dhanyā | dadhānāḥ | su-retasā | śravasā | tuñjamānāḥ | abhi | syāma | pṛtanāyūn | adevān