Sukta 3.1
बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः । गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥
बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः । गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥
bṛhántá id bhānávo bhā́-ṛjīkam agníṃ sacanta vidyúto ná śukrā́ḥ | guhévá vṛddháṃ sádasi své antár apā́ra ūrvé amṛ́taṃ dúhānāḥ ||
The vast beams cleave to Agni the radiant, like bright lightnings. As one grown in a secret chamber within his own seat, they milk the immortal in the boundless wideness.
बृ॒हन्तः॑ । इत् । भा॒नवः॑ । भाःऽऋ॑जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒ऽद्युतः॑ । न । शु॒क्राः । गुहा॑ऽइव । वृ॒द्धम् । सद॑सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृतम् । दुहा॑नाः ॥बृहन्तः । इत् । भानवः । भाःऋजीकम् । अग्निम् । सचन्त । विद्युतः । न । शुक्राः । गुहाइव । वृद्धम् । सदसि । स्वे । अन्तः । अपारे । ऊर्वे । अमृतम् । दुहानाः ॥bṛhantaḥ | it | bhānavaḥ | bhāḥ-ṛjīkam | agnim | sacanta | vi-dyutaḥ | na | śukrāḥ | guhāiva | vṛddham | sadasi | sve | antaḥ | apāre | ūrve | amṛtam | duhānāḥ