Sukta 3.1
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् । देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् । दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥
apā́ṃ gárbhaṃ darśatám óṣadhīnām vánā jajāna subhágā vírūpam | devā́saś cit mánasā sáṃ hí jagmúḥ pániṣṭhaṃ jātáṃ távasaṃ duvasyán ||
The visible embryo of the Waters, the growth of the plants—heaven’s woods have brought forth the fortunate, the many-formed. Even the gods came together in mind to serve the most wondrous-born, the strong one.
अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् । दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । वना । जजान । सुभगा । विरूपम् । देवासः । चित् । मनसा । सम् । हि । जग्मुः । पनिष्ठम् । जातम् । तवसम् । दुवस्यन् ॥apām | garbham | darśatam | oṣadhīnām | vanā | jajāna | su-bhagā | vi-rūpam | devāsaḥ | cit | manasā | sam | hi | jagmuḥ | paniṣṭham | jātam | tavasam | duvasyan