Sukta 3.1
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेय॑: सू॒नवे॒ भाऋ॑जीकः । उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥
akró na babhríḥ samithé mahī́nāṃ didṛkṣéyaḥ sūnáve bhā́-ṛjīkaḥ | úd usriyā́ janitā́ yó jajā́nāpā́ṃ gárbho nṛ́tamo yahvó agníḥ ||
Like a swift courser, tawny in the great battle, he is to be beheld, the radiant Son. He has uplifted the shining herds; he who is their begetter, the embryo of the Waters—Agni, most manly, the mighty mover.
अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः । उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥अक्रः । न । बभ्रिः । सम्इथे । महीनाम् । दिदृक्षेयः । सूनवे । भाःऋजीकः । उत् । उस्रियाः । जनिता । यः । जजान । अपाम् । गर्भः । नृतमः । यह्वः । अग्निः ॥akraḥ | na | babhriḥ | sam-ithe | mahīnām | didṛkṣeyaḥ | sūnave | bhāḥ-ṛjīkaḥ | ut | usriyāḥ | janitā | yaḥ | jajāna | apām | garbhaḥ | nṛ-tamaḥ | yahvaḥ | agniḥ