Sukta 3.1
उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥
उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शस॒: सं हि पू॒र्वीः । ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥
uráu mahā́n anibādhé vavardhā́po agníṃ yaśásaḥ sáṃ hí pūrvī́ḥ | ṛtásya yónāv aśayad damū́nā jāmī́nām agnír apási svasṝ́ṇām ||
In the wide, the great, the unopposed, he has grown; the ancient Waters have gathered their glory into Agni. In the womb of the Truth he rests, the dweller in the home—Agni in the work of his sister-powers.
उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः । ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसृ॑ॠणाम् ॥उरौ । महान् । अनिबाधे । ववर्ध । आपः । अग्निम् । यशसः । सम् । हि । पूर्वीः । ऋतस्य । योनौ । अशयत् । दमूनाः । जामीनाम् । अग्निः । अपसि । स्वसृॠणाम् ॥urau | mahān | ani-bādhe | vavardha | āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ | ṛtasya | yonau | aśayat | damūnāḥ | jāmīnām | agniḥ | apasi | svasṛṝṇām