Sukta 2.9
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥
त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥
tváṃ dūtás tvám u naḥ paraḥ-pā́s tváṃ vásya ā́ vṛṣabha pra-netā́ | ágne tokásya nas táne tanū́nām ápra-yucchan dī́dyad bodhi gopā́ḥ ||
You are the messenger; you are our far-protector; you are the leader toward the better, O Bull of force. O Agni, for our offspring and for the extension of our being, wake in us as the guardian—unfailing, blazing with light.
त्वम् । दू॒तः । त्वम् । ऊँ॒ इति॑ । नः॒ । प॒रः॒ऽपाः । त्वम् । वस्यः॑ । आ । वृ॒ष॒भ॒ । प्र॒ऽने॒ता । अग्ने॑ । तो॒कस्य॑ । नः॒ । तने॑ । त॒नूना॑म् । अप्र॑ऽयुच्छन् । दीद्य॑त् । बो॒धि॒ । गो॒पाः ॥त्वम् । दूतः । त्वम् । ऊँ इति । नः । परःपाः । त्वम् । वस्यः । आ । वृषभ । प्रनेता । अग्ने । तोकस्य । नः । तने । तनूनाम् । अप्रयुच्छन् । दीद्यत् । बोधि । गोपाः ॥tvam | dūtaḥ | tvam | oṃ iti | naḥ | paraḥ-pāḥ | tvam | vasyaḥ | ā | vṛṣabha | pra-netā | agne | tokasya | naḥ | tane | tanūnām | apra-yucchan | dīdyat | bodhi | gopāḥ