Sukta 2.9
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः । अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्ष॑: । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
ní hotā́ hotṛ-sádane vidā́nas tveṣó dīdivā́ṃ asadat su-dákṣaḥ | adábdha-vrata-pramatír vásiṣṭhaḥ sahasráṃ-bharaḥ śúci-jihvo agníḥ ||
Down he has taken his seat—the Priest in the priestly seat—knowing the right way; the intense one, shining, of good skill. Vasiṣṭha, the unbetrayable will and sure discernment, Agni with the pure tongue, the bringer of a thousand powers, is established within us.
नि । होता॑ । हो॒तृ॒ऽसद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒ऽवान् । अ॒स॒द॒त् । सु॒ऽदक्षः॑ । अद॑ब्धऽव्रतप्रमतिः । वसि॑ष्ठः । स॒ह॒स्र॒म्ऽभ॒रः । शुचि॑ऽजिह्वः । अ॒ग्निः ॥नि । होता । होतृसदने । विदानः । त्वेषः । दीदिवान् । असदत् । सुदक्षः । अदब्धव्रतप्रमतिः । वसिष्ठः । सहस्रम्भरः । शुचिजिह्वः । अग्निः ॥ni | hotā | hotṛ-sadane | vidānaḥ | tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ | adabdha-vratapramatiḥ | vasiṣṭhaḥ | sahasram-bharaḥ | śuci-jihvaḥ | agniḥ