Sukta 2.8
आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा । अञ्जानो अजरैरभि ॥
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ । अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥
ā́ yáḥ svàrṇa bhānúnā citró vibhā́ty arcíṣā | añjānó ajárair abhí ||
He who comes like heaven’s own light, variegated with radiance, shining out with his flame—anointing us on every side with ageless powers of illumination.
आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ । अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥आ । यः । स्वः । न । भानुना । चित्रः । विभाति । अर्चिषा । अञ्जानः । अजरैः । अभि ॥ā | yaḥ | svaḥ | na | bhānunā | citraḥ | vi-bhāti | arciṣā | añjānaḥ | ajaraiḥ | abhi