Sukta 2.8
य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते । यस्य व्रतं न मीयते ॥
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ । यस्य॑ व्र॒तं न मीय॑ते ॥
yá u oṃ́ íti śriyā́ dameṣv ā́ doṣóṣasi praśasyáte | yásya vratáṃ ná mī́yate ||
He who, with his splendour, is praised in the homes at night and at dawn; whose law of working does not diminish—Agni, steadfast in the rhythm of Truth.
यः । ऊँ॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ । यस्य॑ । व्र॒तम् । न । मीय॑ते ॥यः । ऊँ इति । श्रिया । दमेषु । आ । दोषा । उषसि । प्रशस्यते । यस्य । व्रतम् । न । मीयते ॥yaḥ | oṃ iti | śriyā | dameṣu | ā | doṣā | uṣasi | pra-śasyate | yasya | vratam | na | mīyate