Sukta 2.8
यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् । चारुप्रतीक आहुतः ॥
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् । चारु॑प्रतीक॒ आहु॑तः ॥
yáḥ sunīthó dadāśúṣe ’júryo járayann arím | cā́ru-pratīka ā́hutaḥ ||
He who is of good leading for the giver, unfailing, wearing down the enemy within; of beautiful visage, he is kindled by the offering.
यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् । चारु॑ऽप्रतीकः । आऽहु॑तः ॥यः । सुनीथः । ददाशुषे । अजुर्यः । जरयन् । अरिम् । चारुप्रतीकः । आहुतः ॥yaḥ | su-nīthaḥ | dadāśuṣe ajuryaḥ | jarayan | arim | cāru-pratīkaḥ | āhutaḥ