Sukta 2.6
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् । आ चास्मिन्त्सत्सि बर्हिषि ॥
स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् । आ चा॒स्मिन्त्स॑त्सि ब॒र्हिषि॑ ॥
sá vidvā́ṃ ā́ ca piprayó yákṣi cikitva ānuṣák | ā́ cāsmín tsatsi bárhiṣi ||
You who know, come and grow full (in us); O conscious one, sacrifice in right succession; and come, sit here upon this seat of offering (the spread of consecrated consciousness).
सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् । आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥सः । विद्वान् । आ । च । पिप्रयः । यक्षि । चिकित्वः । आनुषक् । आ । च । अस्मिन् । सत्सि । बर्हिषि ॥saḥ | vidvān | ā | ca | piprayaḥ | yakṣi | cikitvaḥ | ānuṣak | ā | ca | asmin | satsi | barhiṣi