Sukta 2.6
अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे । दूतो जन्येव मित्र्यः ॥
अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया॑ कवे । दू॒तो जन्ये॑व॒ मित्र्य॑: ॥
antár hy agna ī́yase vidvā́ñ jánmobháyā kave | dūtó janyéva mitryáḥ ||
For, O Agni, you move within, knowing both births, O sage; a messenger like one born among men, you are friendly in your workings.
अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ । दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥अन्तः । हि । अग्ने । ईयसे । विद्वान् । जन्म । उभया । कवे । दूतः । जन्याइव । मित्र्यः ॥antaḥ | hi | agne | īyase | vidvān | janma | ubhayā | kave | dūtaḥ | janyāiva | mitryaḥ