Sukta 2.6
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् । स नः सहस्रिणीरिषः ॥
स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म् । स न॑: सह॒स्रिणी॒रिष॑: ॥
sá no vṛṣṭíṃ divás pári sá no vā́jam anárvāṇam | sá naḥ sahasríṇīr íṣaḥ ||
May he bring to us the raining-down from the heaven (the descent of force); may he bring to us the vāja, the plenitude of victorious energy, undiminished; may he bring to us the thousandfold enjoyments and impulsions of nourishment.
सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् । सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥सः । नः । वृष्टिम् । दिवः । परि । सः । नः । वाजम् । अनर्वाणम् । सः । नः । सहस्रिणीः । इषः ॥saḥ | naḥ | vṛṣṭim | divaḥ | pari | saḥ | naḥ | vājam | anarvāṇam | saḥ | naḥ | sahasriṇīḥ | iṣaḥ