Sukta 2.5
दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥
dadhanvé vā́ yad ī́m ánu vócad bráhmāṇi vér u tát | pári víśvāni kā́vyā némis cakrám ivā́bhavat ||
And when he—bearing and sustaining—utters the inspired words in their true sequence, then all the poet-secrets move around him: he becomes the nave, like the rim of a wheel, holding the whole motion of the work.
द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु॑ । वोच॑त् । ब्रह्मा॑णि । वेः । ऊँ॒ इति॑ । तत् । परि॑ । विश्वा॑नि । काव्या॑ । ने॒मिः । च॒क्रम्ऽइ॑व । अ॒भ॒व॒त् ॥दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्माणि । वेः । ऊँ इति । तत् । परि । विश्वानि । काव्या । नेमिः । चक्रम्इव । अभवत् ॥dadhanve | vā | yat | īm | anu | vocat | brahmāṇi | veḥ | oṃ iti | tat | pari | viśvāni | kāvyā | nemiḥ | cakram-iva | abhavat