Sukta 2.5
साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥
सा॒कं हि शुचि॑ना॒ शुचि॑: प्रशा॒स्ता क्रतु॒नाज॑नि । वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥
sākáṃ hí śúcinā śúciḥ praśāstā́ kratúnā́jani | vidvā́ṃ asya vratā́ dhruvā́ vayā́ ivā́nu rohate ||
For, pure with the pure, the wise guide is born by the power of the will. Knowing his firm laws, he rises after them like a bird upon its paths—ascending in sure stages of ordered flight.
सा॒कम् । हि । शुचि॑ना॒ । शुचिः॑ । प्र॒ऽशा॒स्ता । क्रतु॑ना । अज॑नि । वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ ॥साकम् । हि । शुचिना । शुचिः । प्रशास्ता । क्रतुना । अजनि । विद्वान् । अस्य । व्रता । ध्रुवा । वयाःइव । अनु । रोहते ॥sākam | hi | śucinā | śuciḥ | pra-śāstā | kratunā | ajani | vidvān | asya | vratā | dhruvā | vayāḥ-iva | anu | rohate