Sukta 2.5
आ यस्मिन्त्सप्त रश्मयस्तता यज्ञस्य नेतरि । मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥
आ यस्मि॑न्त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ । म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥
ā́ yásmint saptá raśmáyas tatā́ yajñásya nétari | manuṣvád daívyam aṣṭamáṃ pótā víśvaṃ tád invati ||
He in whom the seven rays are stretched—he, the leader of the sacrifice—impels all that eighth, divine power which works in us as in man: the Pota, the purifier who makes the whole offering move toward its truth.
आ । यस्मि॑न् । स॒प्त । र॒श्मयः॑ । त॒ताः । य॒ज्ञस्य॑ । ने॒तरि॑ । म॒नु॒ष्वत् । दैव्य॑म् । अ॒ष्ट॒मम् । पोता॑ । विश्व॑म् । तत् । इ॒न्व॒ति॒ ॥आ । यस्मिन् । सप्त । रश्मयः । तताः । यज्ञस्य । नेतरि । मनुष्वत् । दैव्यम् । अष्टमम् । पोता । विश्वम् । तत् । इन्वति ॥ā | yasmin | sapta | raśmayaḥ | tatāḥ | yajñasya | netari | manuṣvat | daivyam | aṣṭamam | potā | viśvam | tat | invati