Sukta 2.41
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः । इहाद्य सोमपीतये ॥
आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञिया॑: । इ॒हाद्य सोम॑पीतये ॥
ā́ vām upá-stham adruhā devā́ḥ sīdantu yajñíyāḥ | ihā́dyá sóma-pītaye ||
Let the gods worthy of sacrifice sit here today upon your faultless seat, O you two; here, now, for the drinking of Soma—so the powers may gather in the human being and partake of the illumining delight.
आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ । इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥आ । वाम् । उपस्थम् । अद्रुहा । देवाः । सीदन्तु । यज्ञियाः । इह । अद्य । सोमपीतये ॥ā | vām | upa-stham | adruhā | devāḥ | sīdantu | yajñiyāḥ | iha | adya | soma-pītaye