Sukta 2.41
प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे । अग्निं च हव्यवाहनम् ॥
प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे । अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥
prétāṁ yajñásya śambhúvā yuvā́m idā́ vṛṇīmahe | agníṁ ca havya-vā́hanam ||
Go forth for the sacrifice as the two powers of peace and well-being; you two we choose today—Idā the right inspiration, and Agni the carrier of the offering—so the inner rite may advance without distortion.
प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ । अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥प्र । इताम् । यज्ञस्य । शम्भुवा । युवाम् । इत् । आ । वृणीमहे । अग्निम् । च । हव्यवाहनम् ॥pra | itām | yajñasya | śam-bhuvā | yuvām | it | ā | vṛṇīmahe | agnim | ca | havya-vāhanam