Sukta 2.41
त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥
त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् । शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥
tvé víśvā sarasvati śritā́yūṁṣi devyā́m | śuná-hotreṣu matsva prá-jāṁ devi didiḍḍhi naḥ ||
In you, Sarasvatī, all our life-movements find their support in the divine; in the swift true-offerings take delight, and, O Goddess, set firmly for us the growth of our being and the birth of the soul’s right progeny.
त्वे । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् । शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥त्वे । विश्वा । सरस्वति । श्रिता । आयूंषि । देव्याम् । शुनहोत्रेषु । मत्स्व । प्रजाम् । देवि । दिदिड्ढि । नः ॥tve | viśvā | sarasvati | śritā | āyūṃṣi | devyām | śuna-hotreṣu | matsva | pra-jām | devi | didiḍḍhi | naḥ