Sukta 2.4
नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥
नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि । अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दा॑: ॥
nū́ te pū́rvasyā́vaso ádhītau tṛtī́ye vidáthe mánma śaṃsi | asmé agne saṃyád-vī́raṃ bṛhántam kṣú-mantaṃ vā́jaṃ svapátyaṃ rayíṃ dāḥ ||
Now, in the onward movement of thy ancient help, at the third sacred session I proclaim my inspired thought. O Agni, give us a gathered host of heroes, the Vast, the luminous plenitude, the vāja—force of victorious fullness—together with good lordship and the rayi, the wealth of inner being.
नु । ते॒ । पूर्व॑स्य । अव॑सः । अधि॑ऽइतौ । तृ॒तीये॑ । वि॒दथे॑ । मन्म॑ । शं॒सि॒ । अ॒स्मे इति॑ । अ॒ग्ने॒ । सं॒यत्ऽवी॑रम् । बृ॒हन्त॑म् । क्षु॒ऽमन्त॑म् । वाज॑म् । सु॒ऽअ॒प॒त्यम् । र॒यिम् । दाः॒ ॥नु । ते । पूर्वस्य । अवसः । अधिइतौ । तृतीये । विदथे । मन्म । शंसि । अस्मे इति । अग्ने । संयत्वीरम् । बृहन्तम् । क्षुमन्तम् । वाजम् । सुअपत्यम् । रयिम् । दाः ॥nu | te | pūrvasya | avasaḥ | adhi-itau | tṛtīye | vidathe | manma | śaṃsi | asme iti | agne | saṃyat-vīram | bṛhantam | kṣu-mantam | vājam | su-apatyam | rayim | dāḥ