Sukta 2.4
स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः । अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥
स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः । अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥
sá yó vyásthād abhí dákṣad urvī́ṃ paśúr ná eti sváyur ágopāḥ | agníḥ śóciṣmāṃ atásāny uṣṇán kṛṣṇá-vyathir asvadáyan ná bhū́ma ||
He who has stood apart and burned through the wide earth—no beast goes there, self-moved and unguided. Agni, full of flame, heating the fibres, makes even the black resistance taste; he works the ground into sweetness.
सः । यः । वि । अस्था॑त् । अ॒भि । धक्ष॑त् । उ॒र्वीं । प॒शुः । न । ए॒ति॒ । स्व॒ऽयुः । अगो॑पाः । अ॒ग्निः । शो॒चिष्मा॑न् । अ॒त॒सानि॑ । उ॒ष्णन् । कृ॒ष्णऽव्य॑थिः । अ॒स्व॒द॒य॒त् । न । भूम॑ ॥सः । यः । वि । अस्थात् । अभि । धक्षत् । उर्वीं । पशुः । न । एति । स्वयुः । अगोपाः । अग्निः । शोचिष्मान् । अतसानि । उष्णन् । कृष्णव्यथिः । अस्वदयत् । न । भूम ॥saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṃ | paśuḥ | na | eti | sva-yuḥ | agopāḥ | agniḥ | śociṣmān | atasān | yuṣṇan | kṛṣṇa-vyathiḥ | asvadayat | na | bhūma