Sukta 2.4
त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः । सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥
त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः । सु॒वीरा॑सो अभिमाति॒षाह॒: स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥
tváyā yáthā gṛtsamádāso agne gúhā vanvánta úparāṃ abhí ṣyúḥ | suvī́rāso abhimātiṣā́haḥ smát sūríbhyō gṛṇaté tád váyo dhāḥ ||
By thee, O Agni, as the Gṛtsamadas striving in the hidden places rise beyond the upper limits, so may we become rich in heroic powers, conquerors of hostile pressures; from thee, for the praising seers, establish that vital plenitude and growth.
त्वया॑ । यथा॑ । गृ॒त्स॒ऽम॒दासः॑ । अ॒ग्ने॒ । गुहा॑ । व॒न्वन्तः॑ । उप॑रान् । अ॒भि । स्युरिति॒ स्युः । सु॒ऽवीरा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । स्मत् । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । तत् । वयः॑ । धाः॒ ॥त्वया । यथा । गृत्समदासः । अग्ने । गुहा । वन्वन्तः । उपरान् । अभि । स्युरिति स्युः । सुवीरासः । अभिमातिसहः । स्मत् । सूरिभ्यः । गृणते । तत् । वयः । धाः ॥tvayā | yathā | gṛtsa-madāsaḥ | agne | guhā | vanvantaḥ | uparān | abhi | syuritisyuḥ | su-vīrāsaḥ | abhimāti-sahaḥ | smat | sūri-bhyaḥ | gṛṇate | tat | vayaḥ | dhāḥ