Sukta 2.4
आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् । कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥
आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् । कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥
ā́ yó vánā tatṛṣāṇó ná bhāti vā́rṇa pathā́ rathyéva svānīt | kṛṣṇā́dhvā tapú raṇváś ciketa dyáur iva smáyamāno nábho-bhiḥ ||
He who, thirsting, shines not in the woods, yet is led along a path like a chariot-road, following his own sound. On the black way, his heat knows its delight; like heaven smiling with its clouds, he reveals himself.
आ । यः । वना॑ । त॒तृ॒षा॒णः । न । भाति॑ । वाः । न । प॒था । रथ्या॑ऽइव । स्वा॒नी॒त् । कृ॒ष्णऽअ॑ध्वा । तपुः॑ । र॒ण्वः । चि॒के॒त॒ । द्यौःऽइ॑व । स्मय॑मानः । नभः॑ऽभिः ॥आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याइव । स्वानीत् । कृष्णअध्वा । तपुः । रण्वः । चिकेत । द्यौःइव । स्मयमानः । नभःभिः ॥ā | yaḥ | vanā | tatṛṣāṇaḥ | na | bhāti | vāḥ | na | pathā | rathyāiva | svānīt | kṛṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa | dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ