Sukta 2.4
आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत् ॥
आ यन्मे॒ अभ्वं॑ व॒नद॒: पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् । स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥
ā́ yán me ábhvaṃ vanádaḥ pánanto uśíg-bhyo ná amimīta várṇam | sá citréṇa cikite ráṃsu bhāsā́ jujurvā́n yó muhúr ā́ yúvā bhūt ||
When, for me, the roaring ones moving in the woods measured out the vastness and the colour—like the eager flames—then he perceives by his many-hued radiance, delighting; ever-aging, he becomes again and again young.
आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् । सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्भ्यः । न । अमिमीत । वर्णम् । सः । चित्रेण । चिकिते । रम्सु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत् ॥ā | yat | me | abhvam | vanadaḥ | pananta | uśik-bhyaḥ | na | amimīta | varṇam | saḥ | citreṇa | cikite | ram-su | bhāsā | jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt