Sukta 2.4
इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः । एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥
इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्व॑: ॥
imáṃ vidhánto apā́ṃ sadhásthe dvitā́ dadhur bhṛ́gavo vikṣv āyóḥ | eṣá víśvāny abhy àstu bhū́mā devā́nām agnír aratír jīrā́śvaḥ ||
This Agni, the bringers of the rite set in the common seat of the Waters; the Bhṛgus established him again among the peoples of the living. May this Agni, swift in movement and with steeds of speed, become for all beings the wide ground and support of the Gods.
इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । द्वि॒ता । अ॒द॒धुः॒ । भृग॑वः । वि॒क्षु । आ॒योः । ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । भूम॑ । दे॒वाना॑म् । अ॒ग्निः । अ॒र॒तिः । जी॒रऽअ॑श्वः ॥इमम् । विधन्तः । अपाम् । सधस्थे । द्विता । अदधुः । भृगवः । विक्षु । आयोः । एषः । विश्वानि । अभि । अस्तु । भूम । देवानाम् । अग्निः । अरतिः । जीरअश्वः ॥imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ | eṣaḥ | viśvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-aśvaḥ