Sukta 2.4
हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् । मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥
हु॒वे व॑: सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् । मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥
huvé vaḥ su-dyótmānaṃ su-vṛktíṃ viśā́m agním atíthiṃ su-práyasam | mítra iva yó didhiṣā́yyo bhūd devá ā́deve jáne jā́tavedāḥ ||
I call to you the well-luminous Agni, the perfect in utterance, the guest of the peoples, rich in plenitude of giving. Like Mitra, he becomes the one to be firmly established; a god among those who are not yet godlike, Jātavedas born with the knowledge.
हु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् । मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥हुवे । वः । सुद्योत्मानम् । सुवृक्तिम् । विशाम् । अग्निम् । अतिथिम् । सुप्रयसम् । मित्रःइव । यः । दिधिषाय्यः । भूत् । देवः । आदेवे । जने । जातवेदाः ॥huve | vaḥ | su-dyotmānam | su-vṛktim | viśām | agnim | atithim | su-prayasam | m itraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt | devaḥ | ādeve | jane | jāta-vedāḥ