Sukta 2.37
अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥
अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम् । पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥
arvā́ñcam adyá yáyyaṃ nṛ-vā́haṇaṃ ráthaṃ yuñjāthām ihá vāṃ vi-mócanam | pṛṅktáṃ havī́ṃṣi mádhunā hí kaṃ gátam áthā sómaṃ pibatam vājinīvasū ||
Yoke today the forward-coming chariot that bears the human being, for your release and wide working here. Mix the offerings with the honeyed sweetness; come indeed to this our call, and then drink the Soma, O you who are rich in plenitudes of force.
अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् । पृ॒ङ्क्तम् । ह॒वींषि । म॒धु॒ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥अर्वाञ्चम् । अद्य । यय्यम् । नृवाहनम् । रथम् । युञ्जाथाम् । इह । वाम् । विमोचनम् । पृङ्क्तम् । हवींषि । मधुना । आ । हि । कम् । गतम् । अथ । सोमम् । पिबतम् । वाजिनीवसू इति वाजिनीवसू ॥arvāñcam | adya | yayyam | nṛ-vāhanam | ratham | yuñjāthām | iha | vām | vi-mocanam | pṛṅktam | havīṃṣi | madhunā | ā | hi | kam | gatam | atha | somam | pibatam | vājinīvasūitivājinī-vasū