Sukta 2.37
अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् । तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥
अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम् । तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥
apā́d hotrā́d utá potrā́d amattóta neṣṭrā́d ajuṣata práyo hitám | turī́yaṃ pā́tram amṛ́ktam amártyaṃ draviṇodā́ḥ píbatū drāviṇodásaḥ ||
He has drunk from the Hotṛ, and from the Potṛ he has grown glad; and from the Neṣṭṛ he has accepted the placed offering. Let Draviṇodāḥ drink the fourth vessel—unmixed, immortal; let the givers of plenitude drink.
अपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् । तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः॒ । पि॒ब॒तु॒ । द्रा॒वि॒णो॒द॒सः ॥अपात् । होत्रात् । उत । पोत्रात् । अमत्त । उत । नेष्ट्रात् । अजुषत । प्रयः । हितम् । तुरीयम् । पात्रम् । अमृक्तम् । अमर्त्यम् । द्रविणःदाः । पिबतु । द्राविणोदसः ॥apāt | hotrāt | uta | potrāt | amatta | uta | neṣṭrāt | ajuṣata | prayaḥ | hitam | turīyam | pātram | amṛktam | amartyam | draviṇaḥ-dāḥ | pibatu | drāviṇodasaḥ