Sukta 2.37
जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः ॥
जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् । विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥
jóṣy agne samídhaṃ jóṣy āhútiṃ jóṣi bráhma jányam jóṣi su-stutím | víśvebhir víśvāṃ ṛtúnā vaso iti máha uśán devā́n uśatáḥ pāyaya havíḥ ||
Take joy, O Agni, in the kindling; take joy in the offering; take joy in the mantric word that is born of our being; take joy in the well-shaped praise. With all the gods, in the rhythm of the Right, O Vasu, desire the gods who desire, and cause them to drink the oblation.
जोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् । विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥जोषि । अग्ने । सम्इधम् । जोषि । आहुतिम् । जोषि । ब्रह्म । जन्यम् । जोषि । सुस्तुतिम् । विश्वेभिः । विश्वान् । ऋतुना । वसो इति । महः । उशन् । देवान् । उशतः । पायय । हविः ॥joṣi | agne | sam-idham | joṣi | āhutim | joṣi | brahma | janyam | joṣi | su-stutim | viśvebhiḥ | viśvān | ṛtunā | vaso iti | mahaḥ | uśan | devān | uśataḥ | pāyaya | haviḥ