Sukta 2.37
मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते । आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते । आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोद॒: पिब॑ ऋ॒तुभि॑: ॥
médyantu te vahnayo yébhir ī́yase ’ríṣaṇyan vīḷayasva vanaspate | āyū́yā dhṛ́ṣṇo abhi-gū́ryā tváṃ neṣṭrā́t sómaṃ draviṇaḥ-daḥ píba ṛtú-bhiḥ ||
May thy bearers be made ready, by whom thou goest; unharmable, press forward, O Lord of the wood. Come near, bold one, drawing close in protection; from the Neṣṭṛ drink the Soma, O giver of riches, in the rhythms of ṛta.
मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ । आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥मेद्यन्तु । ते । वह्नयः । येभिः । ईयसे । अरिषण्यन् । वीळयस्व । वनस्पते । आयूय । धृष्णो इति । अभिगूर्य । त्वम् । नेष्ट्रात् । सोमम् । द्रविणःदः । पिब । ऋतुभिः ॥medyantu | te | vahnayaḥ | yebhiḥ | īyase | ariṣaṇyan | vīḷayasva | vanaspate | āyūya | dhṛṣṇo iti | abhi-gūrya | tvam | neṣṭrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ