Sukta 2.37
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते । अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते । अ॒ध्व॒र्युभि॒: प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोद॒: पिब॑ ऋ॒तुभि॑: ॥
yám u pū́rvam áhuve tám idáṃ huve sá íd u havyó dadír yó nā́ma pátyate | adhvaryú-bhiḥ prá-sthitaṃ sómyaṃ mádhu potrā́t sómaṃ draviṇaḥ-daḥ píba ṛtú-bhiḥ ||
He whom I called before, him I call now again; he indeed is worthy of the offering—Dadhi, who by name is lord. Set forth by the Adhvaryus is the Soma’s honey; from the Potṛ drink the Soma, O giver of riches, in the rhythms of ṛta.
यम् । ऊँ॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊँ॒ इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते । अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥यम् । ऊँ इति । पूर्वम् । अहुवे । तम् । इदम् । हुवे । सः । इत् । ऊँ इति । हव्यः । ददिः । यः । नाम । पत्यते । अध्वर्युभिः । प्रस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविणःदः । पिब । ऋतुभिः ॥yam | oṃ iti | pūrvam | ahuve | tam | idam | huve | saḥ | it | oṃ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate | adhvaryu-bhiḥ | pra-sthitam | somyam | madhu | potrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ