Sukta 2.35
यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥
यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ । व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभि॑: ॥
yó apsv ā́ śúcinā daivyéna ṛtā́vāj asrá urviyā́ ví-bhāti | vayā́ íd anyā́ bhúvanāny asya prá jāyante vīrúdhaś ca prajā́bhiḥ ||
He who in the waters shines out through the divine purity, ever moving with ṛta and plenitude of force: from him indeed are born the other worlds, and the birds of life, and the growing plants with their generations.
यः । अ॒प्ऽसु । आ । शुचि॑ना । दैव्ये॑न । ऋ॒तऽवा॑ । अज॑स्रः । उ॒र्वि॒या । वि॒ऽभाति॑ । व॒याः । इत् । अ॒न्या । भुव॑नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः॑ । च॒ । प्र॒ऽजाभिः॑ ॥यः । अप्सु । आ । शुचिना । दैव्येन । ऋतवा । अजस्रः । उर्विया । विभाति । वयाः । इत् । अन्या । भुवनानि । अस्य । प्र । जायन्ते । वीरुधः । च । प्रजाभिः ॥yaḥ | ap-su | ā | śucinā | daivyena | ṛta-vā | ajasraḥ | urviyā | vi-bhāti | vayāḥ | it | anyā | bhuvanāni | asya | pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ