Sukta 2.35
स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति । सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥
स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति । सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥
svá ā́ dáme sudúghā́ yásya dhenúḥ svadhā́ṃ pīpāya subhv ànnam atti | só apā́ṃ napād ūrjáyann apsv àntar vasudéyāya vidhaté ví bhāti ||
In his own home the milch-cow of plenty yields richly; he increases the self-law and enjoys the good nourishment. That Son of the Waters, building the force of being within the waters, shines out for the giver of the rite, to bestow the true riches.
स्वे । आ । दमे॑ । सु॒ऽदुघा॑ । यस्य॑ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒ऽभु । अन्न॑म् । अ॒त्ति॒ । सः । अ॒पाम् । नपा॑त् । ऊ॒र्जय॑न् । अ॒प्ऽसु । अ॒न्तः । व॒सु॒ऽदेया॑य । वि॒ध॒ते । वि । भा॒ति॒ ॥स्वे । आ । दमे । सुदुघा । यस्य । धेनुः । स्वधाम् । पीपाय । सुभु । अन्नम् । अत्ति । सः । अपाम् । नपात् । ऊर्जयन् । अप्सु । अन्तः । वसुदेयाय । विधते । वि । भाति ॥sve | ā | dame | su-dughā | yasya | dhenuḥ | svadhām | pīpāya | su-bhu | annam | atti | saḥ | apām | napāt | ūrjayan | ap-su | antaḥ | vasu-deyāya | vidhate | vi | bhāti