Sukta 2.35
अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् । आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥
अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृच॑: पाहि सू॒रीन् । आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥
aśvasyā́tra jánimā́sya ca svàr-druháḥ ríṣaḥ sampṛ́caḥ pāhi sūrī́n | āmā́su pū́rṣu paró apramṛ́ṣyaṃ ná ārā́tayo ví naśannā́nṛtāni ||
Here is the birth of the Horse—of that fiery power; guard the illumined seers from the hurt and from the hostile perversion that would mingle with their light. In the raw and unripe fullnesses, remain beyond all defilement and unassailable; let the powers of misgiving perish, and let not the falsehoods prevail.
अश्व॑स्य । अत्र॑ । जनि॑म । अ॒स्य । च॒ । स्वः॑ । द्रु॒हः । रि॒षः । स॒म्ऽपृचः॑ । पा॒हि॒ । सू॒रीन् । आ॒मासु॑ । पू॒र्षु । प॒रः । अ॒प्र॒ऽमृ॒ष्यम् । न । अरा॑तयः । वि । न॒श॒न् । न । अनृ॑तानि ॥अश्वस्य । अत्र । जनिम । अस्य । च । स्वः । द्रुहः । रिषः । सम्पृचः । पाहि । सूरीन् । आमासु । पूर्षु । परः । अप्रमृष्यम् । न । अरातयः । वि । नशन् । न । अनृतानि ॥aśvasya | atra | janima | asya | ca | svaḥ | druhaḥ | riṣaḥ | sam-pṛcaḥ | pāhi | sūrīn | āmāsu | pūrṣu | paraḥ | apra-mṛṣyam | na | arātayaḥ | vi | naśan | na | anṛtāni