Sukta 2.35
अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् । कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥
अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न॑म् । कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूना॑म् ॥
asmái tisró avyathyā́ya nā́rīr devā́ya devī́r didhiṣánty ánnam | kṛtā́ iva úpa hí prasarsré apsú sá pīyū́ṣaṃ dhayati pūrvasū́nām ||
For him, the unassailable god, three divine women set the food in place. As if a work well done, he spreads forth in the waters; he drinks the pīyūṣa—the original nectar—of the first-born powers.
अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय॑ । नारीः॑ । दे॒वाय॑ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न॑म् । कृता॑ऽइव । उप॑ । हि । प्र॒ऽस॒र्स्रे । अ॒प्ऽसु । सः । पी॒यूष॑म् । ध॒य॒ति॒ । पू॒र्व॒ऽसूना॑म् ॥अस्मै । तिस्रः । अव्यथ्याय । नारीः । देवाय । देवीः । दिधिषन्ति । अन्नम् । कृताइव । उप । हि । प्रसर्स्रे । अप्सु । सः । पीयूषम् । धयति । पूर्वसूनाम् ॥asmai | tisraḥ | avyathyāya | nārīḥ | devāya | devīḥ | didhiṣanti | annam | kṛtāiva | upa | hi | pra-sarsre | ap-su | saḥ | pīyūṣam | dhayati | pūrva-sūnām