Sukta 2.35
तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः । स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥
तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑ना॒: परि॑ य॒न्त्याप॑: । स शु॒क्रेभि॒: शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥
tám asmerā́ yuvatáyo yúvānaṃ marmṛjyámānāḥ pári yánty ā́paḥ | sá śukrébhiḥ śíkvabhī revád asmé dīdā́yā́nidhmó ghṛtánirṇig apsú ||
Around him the smiling young Waters move, cleansing the young one. He shines for us with bright, skilful energies, rich in delight—an unfed flame, with ghee-like radiance, within the waters.
तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परि॑ । य॒न्ति॒ । आपः॑ । सः । शु॒क्रेभिः॑ । शिक्व॑ऽभिः । रे॒वत् । अ॒स्मे इति॑ । दी॒दाय॑ । अ॒नि॒ध्मः । घृ॒तऽनि॑र्निक् । अ॒प्ऽसु ॥तम् । अस्मेराः । युवतयः । युवानम् । मर्मृज्यमानाः । परि । यन्ति । आपः । सः । शुक्रेभिः । शिक्वभिः । रेवत् । अस्मे इति । दीदाय । अनिध्मः । घृतनिर्निक् । अप्सु ॥tam | asmerāḥ | yuvatayaḥ | yuvānam | marmṛjyamānāḥ | pari | yanti | āpaḥ | saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti | dīdāya | anidhmaḥ | ghṛta-nirnik | ap-su