Sukta 2.35
इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् । अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥
इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् । अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥
imáṃ svásmai hṛdá ā́ sutáṣṭaṃ mántraṃ vocema kúvid asyá védat | apā́ṃ nápād asúryasya máhnā víśvāny aryó bhúvanā jajāna ||
This mantra, well-shaped from the heart, we speak for him—will he know it? The Child of the Waters, by the greatness of his lordly power, has brought to birth all the worlds as a noble master within them.
इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् । अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥इमम् । सु । अस्मै । हृदः । आ । सुतष्टम् । मन्त्रम् । वोचेम । कुवित् । अस्य । वेदत् । अपाम् । नपात् । असुर्यस्य । मह्ना । विश्वानि । अर्यः । भुवना । जजान ॥imam | su | asmai | hṛdaḥ | ā | su-taṣṭam | mantram | vocema | kuvit | asya | vedat | apām | napāt | asuryasya | mahnā | viśvāni | aryaḥ | bhuvanā | jajāna