Sukta 2.35
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥
उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे । अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥
upém asṛkṣi vājayúrv acasyā́ṃ cánó dadhīta nā́dyo gíro me | apā́ṃ nápād āśuhémā kúvit sá supéśasas karati jóṣiṣad dhi ||
Near to him my word is released, seeking plenitude of force; may the divine one accept these voices of mine. O Child of the Waters, swift in his golden radiance—will he not fashion for us a perfect form of delight, consenting to our aspiration?
उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥उप । ईम् । असृक्षि । वाजयुः । वचस्याम् । चनः । दधीत । नाद्यः । गिरः । मे । अपाम् । नपात् । आशुहेमा । कुवित् । सः । सुपेशसः । करति । जोषिषत् । हि ॥upa | īm | asṛkṣi | vāja-yuḥ | vacasyām | canaḥ | dadhīta | nādyaḥ | giraḥ | me | apām | napāt | āśu-hemā | kuvit | saḥ | su-peśasaḥ | karati | joṣiṣat | hi