Sukta 2.35
अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् । आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥
अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् । आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कै॒: परि॑ दीयन्ति य॒ह्वीः ॥
asmín pade paráme tasthivā́ṁsam adhvasmábhir viśváhā dīdivā́ṁsam | ā́po náp tre ghṛtám ánnaṁ váhantīḥ svayám atká iḥ pári dīyanti yahvī́ḥ ||
In this highest station he stands, ever shining through the paths of our being. To the Son of the Waters the strong Waters themselves bring the clarified richness as food, and of their own impulse they move around him and give themselves, vast in their flowing power.
अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् । अ॒ध्व॒स्मऽभिः॑ । वि॒श्वहा॑ । दीदि॒ऽवांस॑म् । आपः॑ । नप्त्रे॑ । घृ॒तम् । अन्न॑म् । वह॑न्तीः । स्व॒यम् । अत्कैः॑ । परि॑ । दी॒य॒न्ति॒ । य॒ह्वीः ॥अस्मिन् । पदे । परमे । तस्थिवांसम् । अध्वस्मभिः । विश्वहा । दीदिवांसम् । आपः । नप्त्रे । घृतम् । अन्नम् । वहन्तीः । स्वयम् । अत्कैः । परि । दीयन्ति । यह्वीः ॥asmin | pade | parame | tasthi-vāṃsam | adhvasma-bhiḥ | viśvahā | dīdi-vāṃsam | āpaḥ | naptre | ghṛtam | annam | vahantīḥ | svayam | atkaiḥ | pari | dīyanti | yahvīḥ