Sukta 2.35
स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति । सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥
स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति । सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥
sa īṁ vṛ́ṣā janayat tā́su gárbhaṁ sa īṁ śíśur dhayati táṁ rihanti | só apā́m napā́d anabhimlāta-varṇó ’nyásyevehá tanvā́ viveṣa ||
He, the mighty Bull, casts a germ of becoming into those Waters; he, the Child, drinks their milk, and they caress and nourish him. This is Apām Napāt, of unblemished radiance, who here enters and pervades with his own body as if he were of another world.
सः । ई॒म् । वृषा॑ । अ॒ज॒न॒य॒त् । तासु॑ । गर्भ॑म् । सः । ई॒म् । शिशुः॑ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ । सः । अ॒पाम् । नपा॑त् । अन॑भिम्लातऽवर्णः । अ॒न्यस्य॑ऽइव । इ॒ह । त॒न्वा॑ । वि॒वे॒ष॒ ॥सः । ईम् । वृषा । अजनयत् । तासु । गर्भम् । सः । ईम् । शिशुः । धयति । तम् । रिहन्ति । सः । अपाम् । नपात् । अनभिम्लातवर्णः । अन्यस्यइव । इह । तन्वा । विवेष ॥saḥ | īm | vṛṣā | ajanayat | tāsu | garbham | saḥ | īm | śiśuḥ | dhayati | tam | rihant i | saḥ | apām | napāt | anabhimlāta-varṇaḥ | anyasya-iva | iha | tanvā | v iveṣa